Lépjen offline állapotba az Player FM alkalmazással!
01-08-09
Manage episode 166925295 series 1319026
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।
01-08

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।
पदच्छेतः
भवान्, भाष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः ।
अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥
पदपरिचयः
| पदम् | विवरणम् | पदम् | विवरणम् |
| भवान् | भवत् -त. पु. प्र. एक. | भाष्मः | अ. पु. प्र. एक. |
| च | अव्ययम् | कर्णः | अ. पु. प्र. एक. |
| कृपः | अ. पु. प्र. एक. | समितिञ्जयः | अ. पु. प्र. एक. |
| अश्वत्थामा | अश्वत्थामन् -न. पु. प्र. एक. | विकर्णः | अ. पु. प्र. एक. |
| सौमदत्तिः | इ. पुं. प्र. एक. | तथा | अव्ययम् |
| एव | अव्ययम् |
अन्वयः
भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।
आकाङ्क्षा
| सन्ति । | |
| के के सन्ति ? | भवान् भीष्मः कर्णः समितिञ्जयश्च कृपः अश्वत्थामा विकर्णः सौमदत्तिः च (सन्ति) । |
व्याकरणम्
सन्धिः
| भीष्मश्च | भीष्मः + च | विसर्गसन्धिः (सकारः) श्चुत्वम् |
| कर्णश्च | कर्णः + च | विसर्गसन्धिः (सकारः) श्चुत्वम् |
| कृपश्च | कृपः + च | विसर्गसन्धिः (सकारः) श्चुत्वम् |
| विकर्णश्च | विकर्णः + च | विसर्गसन्धिः (सकारः) श्चुत्वम् |
| सौमदत्तिस्तथैव | सौमदत्तिः + तथैव | विसर्गसन्धिः (सकारः) |
| सौमदत्तिस्तथैव | सौमदत्तिस्तथा + एव | वृद्धिसन्धिः |
समासः
| समितिञ्जयः | समितिं (युद्धं) जयति | कर्तरि खश्-प्रत्ययः उपपदसमासश्च । |
| अश्वत्थामा | अश्वस्य स्थामा इव स्थामा (स्थितिः) यस्य सः | बहुव्रीहिः |
| विकर्णः | विशिष्टौ कर्णौ यस्य सः | बहुव्रीहिः |
तद्धितान्तः
| सौमदत्तिः | सौमदत्त + इञ् (अपत्यार्थे) । सोमदत्तस्य अपत्यं पुमान् । |
01-09
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।

अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीनिताः ।
नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥
पदपरिचयः
| पदम् | विवरणम् | पदम् | विवरणम् |
| अन्ये | अ. सर्व. पु. प्र. बहु. | च | अन्वयम् |
| बहवः | उ. पु. प्र. बहु. | शूराः | अ. पु. प्र. बहु. |
| मदर्थे | अव्ययम् | त्यक्तजीविताः | अ. पु. प्र. बहु. |
| नानाशस्त्रप्रहरणाः | अ. पु. प्र. बहु. | सर्वे | अ. पु. सर्व. प्र. बहु. |
| युद्धविशारदाः | अ. पु. प्र. बहु. |
पदार्थः
| पदम् | अर्थः | पदम् | अर्थः |
| अन्ये | इतरे | ||
| बहवः | नैके | शूराः | विक्रमिणः |
| मदर्थे | मम कृते | त्यक्तजीविताः | अर्पितप्राणाः |
| नानाशस्त्रप्रहरणाः | बहुशस्त्राः | सर्वे | सकलाः |
| युद्धविशारदाः | समरनिपुणाः |
अन्वयः
नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।
आकाङ्क्षा
| त्यक्तजीविताः सन्ति । | |
| कस्मै त्यक्तजीविताः (सन्ति) ? | मदर्थे त्यक्तजीविताः (सन्ति) । |
| के मदर्थे त्यक्तजीविताः (सन्ति) ? | अन्ये मदर्थे त्यक्तजीविताः (सन्ति) ? |
| अन्ये च कति मदर्थे त्यक्तजीविताः (सन्ति) ? | अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । |
| कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? | नानाशस्त्रप्रहरणाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । |
| नानाशस्त्रप्रहरणाः पुनः कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? | नानाशस्त्रप्रहरणाः शूराः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । |
| नानाशस्त्रप्रहरणाः शूराः पुनः कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? | नानाशस्त्रप्रहरणाः शूराः युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । |
| नानाशस्त्रप्रहरणाः शूराः कति यद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? | नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । |
तात्पर्यम्
न केवलम् एतावन्तः, अन्येऽपि बहवः मदर्थे प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।
व्याकरणम्
सन्धिः
| शूरा मदर्थे | शूराः + मदर्थे | विसर्गसन्धिः (लेपः) |
समासः
| त्यक्तजीविताः | त्यक्तं जीवितं यैः ते | बहुव्रीहिः । |
| नानाशस्त्रप्रहरणाः | नानाविधानि शस्तत्राणि नानाशस्त्राणि | मध्यमपदलोपी तत्पुरुषः । |
| नानाशस्त्राणि प्रहरनानि येषां ते | बहुव्रीहिः । | |
| युद्धविशारधाः | युद्धे विशारदाः | सप्तमीतत्पुरुषः । |
| मदर्थे | मम अर्थे | षष्टीतत्पुरुषः । |
| संज्ञकौ – इति वचनात् अर्थे इत्येतत् अव्ययम् । तदन्तत्वात् अयमपि शब्दः अव्ययम् । |
33 epizódok

Semua episod
×Üdvözlünk a Player FM-nél!
A Player FM lejátszó az internetet böngészi a kiváló minőségű podcastok után, hogy ön élvezhesse azokat. Ez a legjobb podcast-alkalmazás, Androidon, iPhone-on és a weben is működik. Jelentkezzen be az feliratkozások szinkronizálásához az eszközök között.